|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.6. अध्यायः 006
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
बृहस्पतिना इन्द्रे स्वेन मरुत्तस्यायाजनप्रतिज्ञानश्रवणामर्षिणा मरुत्तेनि स्वयाजनप्रार्थेन तत्प्रत्याख्यानम्॥ 1 ॥ ततः प्रतिनिवृत्तस्य मरुत्तस्य मध्येमार्गं नारदसमागमः॥ 2 ॥ नारदचोदनया मरुत्तेन वाराणसीद्वारे स्वेन स्थापितकुणपावलोकनेन प्रलायमानं संवर्तं प्रत्यनुगमनम्॥ 3 ॥ संवर्तेन तत्प्रतिनिवर्तनाय पांसुकदमप्रक्षेपेप्यनिवर्तमानं तमवलोक्यं विजने न्यग्रोधमूले समुपवेशः॥ 4 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
व्यास उवाच।
अत्राप्युदाहरन्तीमममितिहासं पुरातनम्।
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः॥ 14-6-1(92487)
देवराजस्य समयं कृतमाङ्गिरसेन ह।
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम्॥ 14-6-2(92488)
सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्॥ 14-6-3(92489)
भगवन्यन्मया पूर्वमभिगम्य तपोधन।
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो॥ 14-6-4(92490)
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे।
याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च॥ 14-6-5(92491)
बृहस्पतिरुवाच। 14-6-6x(7737)
न कामये याजयितुं त्वामहं पृथिवीपते।
वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे॥ 14-6-6(92492)
मरुत्त उवाच। 14-6-7x(7738)
पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम्।
तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम्॥ 14-6-7(92493)
बृहस्पतिरुवाच। 14-6-8x(7739)
अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम्।
मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात्॥ 14-6-8(92494)
न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति॥ 14-6-9(92495)
व्यास उवाच। 14-6-10x(7740)
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्।
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम्॥ 14-6-10(92496)
देवर्षिणा समागम्य नारदेनि स पार्थिवः।
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्॥ 14-6-11(92497)
राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ।
क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम्॥ 14-6-12(92498)
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप॥ 14-6-13(92499)
एवमुक्तो मरुत्तः स नारदेन महर्षिणा।
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत्॥ 14-6-14(92500)
मरुत्त उवाच। 14-6-15x(7741)
गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्।
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत॥ 14-6-15(92501)
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद॥ 14-6-16(92502)
व्यास उवाच। 14-6-17x(7742)
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह।
आविक्षितं महाराज वाचा संजीवयन्निव॥ 14-6-17(92503)
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः।
चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः॥ 14-6-18(92504)
तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः।
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति॥ 14-6-19(92505)
मरुत्त उवाच। 14-6-20x(7743)
संजीवितोऽहं भवता वाक्येनानेन नारद।
पश्येयं क्व नु संवर्तं शंस मे वदतांवर॥ 14-6-20(92506)
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे॥ 14-6-21(92507)
नारद उवाच। 14-6-22x(7744)
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम्।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते॥ 14-6-22(92508)
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्।
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते॥ 14-6-23(92509)
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः॥ 14-6-24(92510)
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह।
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन्॥ 14-6-25(92511)
स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया॥ 14-6-26(92512)
व्यास उवाच। 14-6-27x(7745)
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम्॥ 14-6-27(92513)
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः।
कुणपं स्थापयामास नारदस्य वचः स्मरन्॥ 14-6-28(92514)
यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत्।
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत॥ 14-6-29(92515)
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात्।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम्॥ 14-6-30(92516)
स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च।
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्॥ 14-6-31(92517)
स तथा बाध्यमानो वै संवर्तेन महीपतिः।
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन्॥ 14-6-32(92518)
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्॥ ॥ 14-6-33(92519)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-6-13 मन्युं दैन्यम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|